एका लघ्वी कथा #३२ – त्यागशीलः बलिचक्रवर्ती।

बलिचक्रवर्ती दानवीरः आसीत्। यज्ञनिमित्तं सर्वमपि दानं कृतवान् आसीत्। सत्यम् अभिरक्षितुं सः आत्मनम् अपि आहुतिं कृतवान्।

कदाचित् कश्चन वामनः महाराजं प्रति उपगम्य पदत्रयं याचितवान्। महाराजः सपदि अविचार्य ददामि इति प्रतिश्रवं कृतवान्। तस्य वचनं श्रुत्वा गुरुः शुक्राचार्यः महाराजम् अवरुद्धवान्।

“हे बलिचक्रवर्तिन्, सः सामान्यः बालः नास्ति। सः शक्तिसम्पन्नः अस्ति। सः साक्षात् विष्णुमूर्तिः अस्ति। वाग्दानं कृत्वा न प्रमदितव्यम्। अतः इयं प्रतिज्ञा न कर्तव्या।

गुरुवचनानि आकर्ण्य “वचनभङ्गात् महत्तरं पातकं किं स्यात्।” इति बलिचक्रवर्ती उत्तरं दत्त्वा गुरूपदेशम् अपि उपेक्ष्य वामनाय कृतां प्रतिज्ञां परिपालितवान्।

सत्यसन्धः बलिमहाराजः सत्यपरिपालनार्थं भूरि परिश्रमं कृतवान्। अत एव भगवान् तस्मै विविधसुखानि प्रदाय तं पाताललोकं प्रेषितवान्। पाताललोकगमनं नाम तस्य पुनर्जन्म न विद्यते इति भावः।

तद्दिने बलिचक्रवर्ती वामनमूर्तिं वरं प्रार्थितवान्। “स्वामिन्, यथा भवान् अद्य मया सह संभाषणं कृतवान्, यथा भवान् अद्य केरलप्रदेशं प्रविष्टवान् तथैव प्रतिसंवत्सरम् अत्र केरलप्रदेशम् आगम्य प्रजाः परिरक्षतु ।”

एवं वामनमूर्तेः केरलप्रदेशे आगमननिमित्तम् ओणम् इति उत्सवम् प्रजाः आचरन्ति।

बलिचक्रिवर्ती महान् पुण्ययुक्तः आसीत्। यद्यपि तस्य जन्म राक्षसकुले जातं तथापि तस्मिन् देवतागुणाः एव उद्भूताः अभवन्। तस्य पूर्वजन्मसुकृतफलेभ्यः एव केरलप्रदेशीनाम् ओणम् इति महत् पर्वदिनं सम्भूतम्।

Source: Discourse delivered by Bhagavan Sri Sathya Sai Baba on 31st August 2001. https://archive.sssmediacentre.org/www/ssspeaks/index/clips/?sid=105&cid=2&aid=6624


१) न कर्मणा न प्रजया धनेन न त्यागेनैके अमृतत्वमानशुः। – (कैवल्योपनिषद् ३)

कर्मणा वा धनेन वा प्रजया वा अमृतत्वं प्राप्तुं न शक्यते। केवलं त्यागेन अमृतत्वं प्राप्यते।

२) उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदरसंस्थानां परीवाह इवाम्भसाम् ।। (सुभाषितम्)

अर्जितानां वित्तानां त्यागः एव हि तेषां रक्षणं भवति। कथं स्यात्। यथा भरिते तडागे अधिकजलानां गतिः परीवाहः (प्रवृद्धजलस्य निर्गममार्गः) एव। अतः अधिकवित्तसञ्चयं मा कुरु इति बोधः। यावत् आवश्यकं तावत् एव करणीयम् इति नीतिः।

३) दातारं कृपणं मन्ये सर्वमादाय गच्छति । अदाता पुरुषस्त्यागी सर्वं दत्त्वा एव गच्छति ॥ (सुभाषितम्)

यः ददाति तं जनाः कृपणं इति मन्यन्ते। कथं स्यात्। यतोऽतः सः वस्तूनि सर्वाणि दत्त्वा दानफलम् अवश्यं लभते। तत् सम्पाद्य एव परलोकं गच्छति। रिक्तहस्तः सन् न गच्छति।

यः न ददाति तं जनाः त्यागिनम् इति मन्यन्ते। कथं स्यात्। सः यद्यपि लोके जीवन् किमपि न ददाति मरणकाले सर्वं त्यक्त्वा एव गन्तव्यं भवति। दानक्रियाफलं किञ्चिदपि न भवति तस्य। सः रिक्तहस्तः सन् परलोकं गच्छति।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s