श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः। श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्।। 6।।
नारदः वाल्मीकेः प्रश्नं श्रुतवान्। श्रुत्वा सन्तुष्टः नारदः श्रूयताम् इति वाल्मीकेः आमन्त्रणं कृत्वा वाक्यम् इदम् अकथयत्।
त्रिलोकज्ञः नारदः वाल्मीकेः च एतत् वचः श्रुत्वा प्रहृष्टः सन् श्रूयताम् इति आमन्त्र्य च वाक्यम् अब्रवीत्।
नारदः किम् उक्तवान् ?
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः। मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः।। 7।।
नारदः उक्तवान् – “हे मुने, त्वया ये कीर्तिताः बहवः गुणाः ते दुर्लभाः। अहं बुद्ध्वा वक्ष्यामि तैः गुणैः युक्तः नरः श्रूयताम्।”
हे मुने एकस्मिन् एव नरे तादृशाः उत्कृष्टाः सर्वे गुणाः भवेयुः इति अतीव दुर्लभम् अस्ति। तथापि विचिन्त्य कथयिष्यामि। श्रूयतां तादृशः गुणैः युक्तः नरः।
वाल्मीकेः प्रश्नः कठिनः। सर्वसद्गुणसम्पन्नः कः स्यात् सम्प्रति लोके ? उत्तरेषु श्लोकेषु ज्ञास्यामः सः पुरुषोत्तमः कः इति।