Sankshepa Ramayanam #3

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो द्युतिमान्‌ धृतिमान्‌ वशी।। 8।।

बुद्धिमान्‌ नीतिमान्‌ वाग्ग्मी श्रीमाञ्छत्रुनिबर्हणः। विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ।। 9।।

सः पुरुषोत्तमः कः इति नारदः वदति।

इक्ष्वाकुवंशप्रभवः रामः इति नाम जनैः श्रुतः अस्ति।

नारदः तस्य पुरुषोत्तमस्य श्रीरामस्य वर्णनं बहुधा करोति। तस्य गुणकीर्तनं करोति। तस्य स्वरूपवर्णनम् अपि करोति।

सः नियतात्मा माहावीर्यः द्युतिमान् धृतिमान् वशी अस्तिसः बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रुनिबर्हणः अस्तिसः विपुलांसः महाबाहुः कम्बुग्रीवः महाहनुः अस्ति

  • नियतात्मा = नियतः आत्मा यस्य सः। निग्रहवान्। स्वाधीनान्तःकरणः।
  • माहावीर्यः = महद् वीर्यं यस्य सः इति महावीर्यः। महौजाः।
  • द्युतिमान् = द्युतिः अस्मिन् अस्ति इति द्युतिमान्। कान्तियुक्तः।
  • धृतिमान् = धृतिः अस्मिन् अस्ति इति धृतिमान्। धैर्यसंयुतः।
  • वशी = वशः अस्य अस्ति इति वशी। जितेन्द्रियः।
  • बुद्धिमान् = प्रशस्तबुद्धिसम्पन्नः। प्रशस्ता बुद्धिः अस्य अस्ति इति बुद्धिमान्।
  • नीतिमान् = नीतिः अस्य अस्ति इति नीतिमान्। नीतिज्ञः।
  • वाग्मी = प्रशस्ता वाक् अस्य अस्ति इति वाग्मी। प्रशस्तवक्ता।
  • श्रीमान् = श्रीः अस्मिन् अस्ति इति श्रीमान्। श्रीसम्पन्नः।
  • शत्रुनिबर्हणः = रिपुनाशकः। शत्रूणां निबर्हणः। निबर्हणं = मारणम्।
  • विपुलांसः = विपुलौ अंसौ यस्य सः इति विपुलांसः। विस्तृतस्कन्धः। अंसः = स्कन्धः।
  • महाबाहुः = दीर्घबाहुः। महान्तौ बाहू यस्य सः इति महाबाहुः।
  • कम्बुग्रीवः = कम्बुः इव ग्रीवा यस्य सः इति कम्बुग्रीवः। शङ्ख-तुल्य-ग्रीवया युक्तः।
  • महाहनुः = महत्यौ हनू यस्य सः इति महाहनुः।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s