सङ्क्षेपरामायणम् #4

॥ श्रीरामचन्द्राय नमः॥

महोरस्को महेष्वासो गूढजत्रुररिन्दमः। आजानुबाहुः सुशिराः सुललाटः सुविक्रमः।। 10।।

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्‌ । पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः।। 11।।

महर्षिः नारदः श्रीरामस्य गुणान् इतोऽपि प्रशंसति। अत्र श्लोकद्वये तस्य शारीरिकसौन्दर्यं वर्णयति। तदनुरोधेन तस्य शीलस्य स्तवनम् अपि करोति।

श्रीरामः महोरस्कः महेष्वासः गूढजत्रुः अरिन्दमः अस्ति। श्रीरामः आजानुबाहुः सुललाटः सुविक्रमः अस्ति। श्रीरामः समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् अस्ति। श्रीरामः पीनवक्षाः विशालाक्षः लक्ष्मीवान् शुभलक्षणः अस्ति।

नारदः श्रीरामस्य स्कधयोः वक्षसोः देहवर्णस्य अङ्गानां नेत्रयोः ललाटस्य मस्तकस्य चलनस्य बाह्वोः च वर्णनम् उत्कृष्टत्या करोति।

शब्दःअर्थः
महोरस्कःमहत् उरः यस्य सः। विशालवक्षःस्थलः।
उरस् = वक्षस्
महोष्वासः महाधनुर्धरः। महान् इष्वासः यस्य सः।
इष्वासः = धनुः।
गूढजत्रुःगूढे जत्रुणी यस्य सः। अप्रकाश्य-स्कन्धास्थिः।
जत्रुं = स्कन्धसन्धिः (इति शब्दकल्पद्रुमः)
अरिन्दमःयः अरीन् दमयति सः अरिन्दमः। अरिः = शत्रुः। शत्रुदमनः।
आजानुबाहुःजानुपर्यन्तं लम्बमानबाहुयुक्तः।
सुशिराःशोभनं शिरः यस्य सः। शोभनशिरस्कः।
सुललाटःशोभनं ललाटं यस्य सः। सुन्दरललाटसम्पन्नः।
सुविक्रमःशोभनगतियुक्तः। शोभनः विक्रमः यस्य सः।
विक्रमः = पादविक्षेपः।
समःसमुचिताकारः।
समविभक्ताङ्गःसमानि विभक्तानि अङ्गानि यस्य सः। सुघटितावयवः।
स्निग्धवर्णः स्निग्धः वर्णः यस्य सः। स्निग्ध = स्नेहयुक्त।
प्रतापवान्प्रतापः अस्मिन् अस्ति। प्रभावशाली।
पीनवक्षाः पीनं वक्षः यस्य सः। अभ्युन्नतवक्षःस्थलः।
विशालाक्षः विशाले अक्षणी यस्य सः। आयतलोचनः।
अक्ष = नेत्रम्।
लक्ष्मीवान् लक्ष्मीः अस्मिन् अस्ति इति। सौन्दर्यसम्पन्नः।
शुभलक्षणः शुभं लक्षणं यस्य सः। प्रशस्तचिह्नोपेतः।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s