ब्राह्मणः सर्वश्रेष्ठः।

ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥

सुभाषितमिदं मनुस्मृतिः इति धर्मशास्त्रे दृश्यते।

ब्राह्मणः जायमानः हि पृथिव्याम् अधिजायते। ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये।

अधिजायते = अधिकः जायते। सर्वलोकस्य उपरि भवति इति मेधातिथिः।

कथं ब्राह्मणः अधिजायते ?

ब्राह्मणः एव सर्वभूतानां ईश्वरः। ब्राह्मणः धर्मशास्त्रस्य गुप्तये जायते।

गुप्तये = गुप्तिः = रक्षणम् = तस्यै = गुप्तये।

ब्राह्मणः कः भवति। यः ब्रह्म वेदं चैतन्यं वेत्ति अधीते सः ब्राह्मणः।

ब्राह्मणः एव लोके धर्मस्य बोधनं धर्मस्य पालनं च करोति कारयति च। अत एव सः मनुष्येषु सर्वश्रेष्ठः भवति। सर्वभूतानाम् ईश्वरः भवति। ब्राह्मणः धर्मज्ञः भवति।

ब्राह्मणस्य दैवी सम्पद् भवति। यथा उक्तं भगवद्गीतायाम्।

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६ – १ ॥

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६ – २ ॥

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६ – ३ ॥

जन्मना कोऽपि ब्राह्मणः न भवति। चरितेन ब्राह्मणः भवति। यस्मिन् ब्राह्मणत्वं सः ब्राह्मणः। यस्मिन् दैवी सम्पत् सः ब्राह्मणः। यः ब्रह्म वेत्ति सः ब्राह्मणः।

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s