वेदाभ्यासः पञ्चधा

वेदस्वीकरणं पूर्णं विचारोऽभ्यसनं जपः। तद्दानं चैव शिष्येभ्यो वेदाभ्यासः हि पञ्चधा॥

(सुभाषितसुधानिधिः वेदप्रशंसापद्धतिः)

अस्मिन् सुभाषिते वेदाभ्यासः पञ्चधा करणीयः इति प्रोक्तम्। कानि तानि पञ्चविधानानि इति चेत्

  • वेदस्वीकरणं पूर्णम्
  • विचारः
  • अभ्यसनम्
  • जपः
  • शिष्येभ्यः तस्य दानम्

कः अर्थः एतेषाम् इति एकैकशः पश्यामः।

वेदस्वीकरणं पूर्णम् – आदौ तावत् वेदज्ञानप्राप्तिः भवतु। संपूर्णं यत् ज्ञातव्यं तत् प्राप्तव्यम्। यः पाठ्यक्रमः अस्ति सः संपूर्णतया प्राप्तव्यः। यावत् गुरुः उपदिशति तत्सर्वम् अपि स्वीकरणीयम्।

विचारः – तत्त्वनिर्णयः। अस्माकं मनसि प्रतिपादिततत्त्वानि निश्चितरूपेण तिष्ठेयुः। विमर्शः करणीयः। तर्कः करणीयः। प्राप्तं ज्ञानम् असन्दिग्धतया अवगन्तव्यम्।

अभ्यसनम् – प्राप्तेन ज्ञानेन किम्। आचरणीयम्। वेदवचनानुगुणं जीवनं करणीयम्।

जपः – न विस्मरणीयम्। पौनःपुन्येन वेदपठनं करणीयम्। जपः नाम केवलं उच्चैः वदनं नास्ति। अपि तु जिह्वोष्ठादिव्यापार-रहितं शब्दार्थयोश्चिन्तनं हृदुच्चारः।

तद्दानं शिष्येभ्यः – सत्पात्रेभ्यः अस्य वेदज्ञानस्य दानं करणीयम्। अध्यापनीयम्। प्राप्तेन ज्ञानेन अन्येभ्यः सत्पात्रेभ्यः प्रदाय लोककल्याणं साधनीयम्।

विश्लेषणम्

एतानि पञ्चतत्त्वानि केवलं वेदाभ्यासे न अनुयन्ति अपि तु सर्वशास्त्रेषु।

स्वीकरणं पूर्णं – यः कोऽपि विषयः भवतु। सामान्यतया जनाः किञ्चिदेव पठित्वा तस्य प्रसारं कुर्वन्ति। संपूर्णतया ज्ञात्वा अवगम्य विचार्य च न पाठयन्ति। एकस्मात् पुस्तकात् विषयसङ्ग्रहणं कृत्वा अन्यत्र प्रकाशयन्ति। शोधकार्येषु अपि समानः दोषः दृश्यते। अत एव यद्यपि बहवः छात्राः शोधकार्यं कृतवन्तः किन्तु तावन्ति नूतनानि तत्त्वानि न आविष्कृतानि।

विचारः – लेखकस्य अभिप्रायः अस्माभिः पठितः। तदूर्ध्वं स्वविचारः करणीयः। कथं पठितस्य लोके अन्येषु शास्त्रेषु च समन्वयः भवति। प्रमाणानि कानि। तत्त्वनिरूपणविधानं किम्। अत्र औचित्यं वर्तते वा न। केवलं विषयस्य कण्ठस्थीकरणेन अल्पप्रयोजनमेव। तर्कयित्वा तात्पर्यं दृढीकरणीयम्।

अभ्यसनम् – वदति मम गुरुदेवः यत् अस्माकं श्रोत्रेन्द्रियम् एव अस्माकं मुखस्य अतीवसामीप्ये वर्तते। यद्यत् वयं वदामः तेषाम् आचरणं करणीयम्। आचरणं विना ज्ञानस्य प्रयोजनं नास्ति। मम गुरुणा उक्तं खलु – ज्ञानं विना आचरणं प्रमादकरम् आचरणं विना ज्ञानं निरर्थकम्। अतः अभ्यासः अत्यावश्यकः।

जपः – पौनःपुन्येन ज्ञातस्य स्मरणम्। एकवारं ज्ञातं चेत् तत् ज्ञानम् अनुभवरूपेण न प्रत्यक्षीभवति। जानीमः अहं ब्रह्मास्मि इति वेदमहावाक्यम्। किन्तु अस्य प्रत्यक्षानुभवः अस्ति वा। नैव। अत एव जपः करणीयः। प्राप्तं ज्ञानं हृदि मुद्रितं भवतु।

तद्दानं शिष्येभ्यः – निस्स्वार्थतया प्राप्तस्य अवगतस्य आचरितस्य ज्ञानं विज्ञानं च अन्येभ्यः सद्भ्यः शिष्येभ्यः दानं करणीयम्। कृत्वा कृतार्थः भवितव्यः।

इत्थं वेदाभ्यासः विद्याभ्यासः वा पञ्चधा स्मृतः।

1 Comment

  1. उत्तमम् विश्लेषणं महोदय वेदाभ्यासस्य वेदे अन्ये शास्त्रेषु च।

    Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s