अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्धनम्। अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः॥
(सुभाषितसुधानिधिः। हितोपदेशपद्धतिः।)
अस्मिन् सुभाषिते एते वाक्यांशाः वर्तन्ते।
- अञ्जनस्य क्षयं दृष्ट्वा
- वल्मीकस्य वर्धनं दृष्ट्वा
- दिवसम् अवन्ध्यं कुर्यात्
- दानाध्ययनकर्मभिः
अञ्जनं नाम म्रक्षणम्। (to anoint)
अञ्जनस्य क्षयं कथं भवति ? वल्मीकस्य वर्धनं कथं भवति। अत्र कार्यद्वयमपि एकेन दिनेन न सिध्यति। कालक्रमेण सिध्यति।
एकेन स्नानेन मुखप्रक्षालनेन अञ्जनस्य मार्जनं न भवति। कतिपयेषु दिनेषु नित्यस्नानेन अञ्जनम् अपगच्छति। एवमेव – वल्मीकः अपि कतिपयेषु दिनेषु पिपीलिकानां नित्यश्रमेण एव सिद्धः भवति। क्रमेण फलस्य प्राप्तिः भवति।
एवमेव वयं प्रतिदिनं दानम् अध्ययनं कृत्वा दिवसं साफल्यं कुर्याम।
कथं दिवसः सफलः भवति इति चेत् अत्र कार्यद्वयमेव सूचितम् अस्ति। के ते कार्ये ?
दानम् – परोपकारः एव दानम् अस्ति। धनेन अध्यापनेन साहाय्येन त्यागेन वा दानं करणीयम्। दानं न तु केवलं धनस्य भवति। समयस्य ज्ञानस्य सम्पदः क्षेत्रस्य अन्नस्य वाऽपि दानं भवितुम् अर्हति।
अध्ययनम् – आत्मनः उपकारः एव अध्ययनम् अस्ति। ज्ञानप्राप्तिः एव अध्ययनम्। श्रद्धया भक्त्या एकाग्रतया गुरुमुखात् ज्ञानसम्पादनम् एव अध्ययनम्।
अनेन कार्यद्वयेन अपि फलं तु कदा प्राप्यते ? फलप्राप्त्यर्थं बहूनां दिनानाम् अपेक्षा करणीया। यथा क्रमेण जलेन घटः पूर्यते।
संशयः
एतेन कार्यद्वयेन एव दिवसः सफलः भवति। तत् कथम् इति प्रश्नः स्यात्। अन्यानि सर्वाणि कर्माणि व्यर्थानि वा ?
आम्।
दृष्टान्तः
इदानीं शरीरस्य चिन्तनं कुर्मः। शरीरे अनेकानि अङ्गानि सन्ति। एकैकमपि अङ्गं जीवति अपि शरीरं जीवयति। स्वयं जीवितुं अङ्गं प्रयतते। पुष्टिं सम्पाद्य शरीरं पोषयति। दुर्बलं हृदयं शरीरं पोषयितुम् अशक्तम् अस्ति। आदौ हृदयं सशक्तं भवतु। ततः शरीरस्य अन्येभ्यः अङ्गेभ्यः रक्तदानं कुर्यात्।
हृदयस्य आत्मबलवर्धनम् एव अध्ययनम्। हृदयस्य सर्वेभ्यो अङ्गेभ्यो रक्तप्रेषणम् एव दानम्। शरीरस्य स्वास्थ्ये हृदयस्य स्वास्थ्यम्। हृदयस्य स्वास्थ्ये शरीरस्य स्वास्थ्यम्।
यथा हृदयं शरीरं च इत्यनयोः अन्योन्यभावसम्बन्धः तथैव मनुष्यस्य समाजस्य च। मनुष्यस्य स्वास्थ्ये समाजस्य स्वास्थ्यम्। समाजस्य स्वास्थ्ये मनुष्यस्य स्वास्थ्यम्।
निश्चयः
अध्ययनेन आत्मनः स्वास्थ्यं सिध्यति। अध्ययनेन दानशीलतां प्राप्तुं शक्नुमः। दानेन समाजस्य स्वास्थ्यं भवति।
यद्यपि अध्ययनं नाम ज्ञानप्राप्तिः एव तथापि अस्मिन् प्रसङ्गे अहं किञ्चित् भिन्नतया अस्य पदस्य अर्थं स्वीकृतवान्।
अध्ययनं नाम – आत्मनः उपकारः । अत्र ज्ञानप्राप्तिः शरीरपोषणं धनार्जनं सत्सङ्गः तपः जपः च इत्यादीनि अन्तर्भवन्ति। यानि यानि कार्याणि आत्मनः अभिवृद्ध्यर्थं भवन्ति तानि सर्वाणि अपि अत्र अध्ययनम् इति पदेन ग्रहीतव्यम्।
दानं नाम परस्य उपकारः । प्राप्तस्य ज्ञानं वित्तं बलं अन्नं वा इतरेभ्यः दानकरणम्।
एवं अवगम्य उक्तवान् यत् एते द्वे कार्ये विहाय सर्वाणि कार्याणि व्यर्थानि इति।
तादृशानि कार्याणि कानि स्युः। अत्र अस्माभिः परीक्षणीयम्।
अहं किं कुर्वन् अस्मि। तस्य प्रयोजनं किम्। अनेन कार्येण कस्य लाभाय भवति। मम वा परस्य चेत् साधु नो चेत् तत् कार्यं त्यक्तव्यम्। अत्र मम नाम आत्मनः लाभाय भवतु येन इतोपि उत्तमरीत्या अन्यस्य उपकारं कुर्याम्।
There are only two actions worth doing, by which the day is well spent and thereby truly fruitful.
- Help yourself (अध्ययनम्). [With the objective of being able to do better दानम्।]
- Help others (दानम्). [Thereby you help yourself better.]
Sairam Manoj
Last paragraph which is in English
In that, please do spell check
LikeLiked by 1 person
धन्यवादाः। परिष्कृतवान्।
LikeLiked by 1 person