श्रीजगद्गुरुः आदिशङ्कराचार्यः प्रस्थानत्रयस्य भाष्यं रचितवान् इति लोकप्रसिद्धः विषयः अस्ति। तेन कृतेन महता कार्येण इदानीमपि जनाः लाभान्विताः भवन्तः सन्ति। भाष्ये अनेके अंशाः अन्तर्भवन्ति। ते के इति अस्मिन् लेखे सोदाहरणं प्रपञ्चयामि।
गीताशास्त्रस्य उद्देशः।
गीताशास्त्रं सुविख्यातम्। किन्तु अस्य मुख्योद्देशः कः इति बहवः स्पष्टतया न जानान्ति। तद् भाष्ये स्पष्टीकृतं वर्तते।
इत्यतः संसारबीजभूतौ शोकमोहौ तयोश्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञानात् नान्यतो निवृत्तिरिति तदुपदिदिक्षुः सर्वलोकानुग्र-हार्थम् अर्जुनं निमित्तीकृत्य आह भगवान्वासुदेवः — ‘अशोच्यान्’ (भ. गी. २ । ११) इत्यादि ॥
इदानीम् एकमेव श्लोकं स्वीकृत्य पश्यामः।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११ ॥
अस्य श्लोकस्य भाष्यम् एवं वर्तते।
अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् , तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि ‘ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना’ इति ।त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे | तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्म-त्त इव इत्यभिप्रायः।यस्मात् गतासून् गतप्राणान् मृतान् , अगतासून् अगतप्राणान् जीवतश्च न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥
भाष्ये एते अंशाः प्रतिपादिताः।
व्याकरणम्।
भाषायाः मूलभूतः अंशः भवति व्याकरणम्। अस्य ज्ञानेन अवगतिः समीचीना भवति।
- अशोच्यान् – न शोच्या अशोच्याः तान् अशोच्यान्।
- प्रज्ञावादान् प्रज्ञावतां वादान्।
पर्यायपदानि।
तत्र तत्र पर्यापदानि उक्त्वा भाष्यकारः अस्मान् सहकरोति।
- अन्वशोचः अनुशोचितवानसि।
- वादांश्च वचनानि च।
- गतासून् गतप्राणान् मृतान्।
- अगतासून् अगतप्राणान् जीवतश्च।
व्युत्पत्तिप्रदर्शनम्।
दैनन्दिनव्यवहारे अनेकान् शब्दान् प्रयुञ्ज्महे किन्तु तेषां मूलभूतम् अर्थं विस्मृत्य व्यवहरामः। अयं सहजस्वभावः वर्तते। अत एव भाष्यकारः अस्मान् स्मारयितुं तत्र तत्र निर्वचनस्य प्रदर्शनं करोति।
- पण्डिताः आत्मज्ञाः। पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः।
पदानां परामर्शः।
केन पदेन किं परामृष्टम् इति भाष्यकारः प्रकटीकरोति।
- न शोच्या अशोच्याः भीष्मद्रोणादयः।
- के अशोच्याः इति चेत् – भीष्मद्रोणादयः इति अवगन्तव्यम्।
- तान् अशोच्यान् अन्वशोचः अनुशोचितवानसि “ते म्रियन्ते मन्निमित्तम् , अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना’ इति।
- कथम् अर्जुनः अनुशोचितवान् स्यात् ? तद् भाष्यकारः अर्जुनस्य वचांसि सारांशत्वेन कथयति।
अभिप्रायस्य अभिव्यञ्जनम्।
वाक्यप्रबन्धे उक्तानाम् अनुक्तानां चापि पदानाम् अर्थः भवति। उक्तानां पदानाम् अर्थः अवगम्यते एव। अन्वयं कृत्वा कोशगतं अर्थं दृष्ट्वा अवगन्तुं शक्यते। किन्तु अनुक्तानां पदानां अर्थः प्रसङ्गेन वक्तुः अभिप्रायेण च एव अवगम्यते। अत्र भगवद्गीतायाः वक्ता अस्ति परमात्मा श्रीकृष्णः। तस्य अभिप्रायः कः स्यात् ? न वयं सामान्यमानवाः येषां साधनसम्पत्तिः नास्ति अवगन्तुं शक्नुमः। अत एव भाष्यकारः यथोचितं बोधयति।
- तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः।
- परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढोऽसि इत्यभिप्रायः ॥ ११ ॥
निरूपणम्।
भाष्यकारः प्रमाणैः तत्त्वानि निरूपयति। तर्कयित्वा वा श्रुतिबलात् वा निर्णयस्य निरूपणं करोति। यथा
- न शोच्या अशोच्याः भीष्मद्रोणादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्।
- अस्मिन् उदाहरणे किमर्थं भीष्मद्रोणादयः अशोच्याः सन्ति इति तर्कयति। तेषां सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् ते अशोच्याः सन्ति।
- पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः, ‘पाण्डित्यं निर्विद्य’ (बृ. उ. ३ । ५ । १) इति श्रुतेः।
- अस्मिन् उदाहरणे पण्डा नाम आत्मज्ञानम् एव इत्यत्र श्रुतिसम्मतिं प्रदर्शयितुं बृहदारण्यकोपनिषदः वाक्यं उद्धरति।
इत्थं भाष्यकारः यथा वयं सम्यक्तया अवगच्छेम तथा लिखित्वा अस्मान् उपकृतवान् अस्ति।