सायिराम् इति मम अध्यापकः उच्चस्तरीयविद्यालये। सः अस्मान् पदार्थविज्ञानशास्त्रम् (Physics) अध्यापयति स्म। यदा सः पाठयति स्म तदा किञ्चित् अपि काठिन्यं न अनुभूयते स्म। सः श्यामलवर्णः पीनः सदा हसन्मुखः च। परोपकारशीलः तस्य।
अस्माभिः छात्रैः सह छात्रावासे एव निवसति स्म। अस्माकं विद्यालयस्य विशेषः नियमः अस्ति। आचार्याः अन्तेवासिभिः साकं वसनीयाः। अतः गौरवेण सार्धं तेषु आचार्येषु अस्माकम् अतीव प्रीतिः अपि भवति स्म।
विद्यालये विषयाध्यापनं कुर्वन्ति स्म छात्रावासे व्यावहारिकज्ञानं दैनन्दिनज्ञानं च बोधयन्ति स्म। एवम् अस्माकं साहचर्यं मनोहरम् आसीत्। अत एव इदानीमपि तम् उपाध्यायम् आप्तमित्रं मन्ये।
यदा वयं प्रत्यूषे प्रबुद्धाः भवेम ततः पूर्वमेव ते आचार्याः उत्थाय सज्जाः भवेयुः। प्रकोष्ठं प्रकोष्ठम् आगम्य मन्दस्वरेण प्रीतिपूर्वकभावेन सायिराम् इति दिव्यनाम व्याहरन्ति स्म। तत् श्रुत्वा बालकाः वयमपि उच्चैः सायिराम् सर् (Sir) इति अनुवदन्ति स्म। तदा तस्य आचार्यस्य महान् भ्रमः भवति स्म। यतोऽतः तस्य नामधेयमपि सायिराम् इत्येव। छात्राः माम् आह्वयन्तः सन्ति वा सायिराम् इति दिव्यनाम अनुवदन्तः सन्ति इति तस्य सन्देहः भवति स्म। तस्य ईदृशीं भ्रमात्मिकां स्थितिं दृष्ट्वा वयं चेष्टाप्रियाः हसन्तः सन्ति स्म।
अथ कदाचित् अहम् अतीव अस्वस्थः जातः। अधिकः ज्वरः। शरीरं सर्वमपि तपत् आसीत्। खादितुम् अशक्तः। पातुम् अनर्हः। सुखेन स्वप्तुं क्लेशः। जागरितुम् अपि क्लिष्टम्। चलितुं तु असाध्यम्। उपवेष्टुम् एव असमर्थः। एवं पीडाम् अनुभवन् रोदिति स्म। एतत् सर्वमपि नक्तं जातम्। पार्श्वस्थः चिकित्सालयः पिहितः। सः तु ग्रामदेशः। अतः वैद्याः अपि दूरस्थाः नगरीतः प्रतिदिनं गमनागमनं कुर्वन्ति स्म।
तदा एषः आचार्यः माम् स्वप्रकोष्ठं नीत्वा यथा माता कुर्यात् तथा माम् अनुपालितवान्। मम शिरसि आघ्राय स्वामिनः विभूतिप्रसादं मां भक्षयित्वा मम सान्त्वनं कृतवान्। आवश्यकानि औषधानि अपि दत्तवान् आसीत्। तस्य अङ्के एव शनैः निद्रां कृतवान्। स्मरामि तद्दिनं सम्यक्। कथाः श्रावयित्वा गीतानि आकर्ण्य मां निद्रालोकं प्रेषितवान्। परेद्यवि यदा अहम् उत्थितवान् संपूर्णतया स्वस्थः आसम्। मम सहपाठिनः सर्वे आश्चर्यचकिताः अभवन्। कथं वा तावत् अनारोग्यम् अनुभवन् अपि परस्मिन् अहनि सुस्वथः जातः इति मम मित्राणि विचारयन्ति आसान्।
अत्र कारणं तु स्पष्टमेव। न तु औषधानि किन्तु मातृवत् अनुपालनम्। तादृशम् उत्कृष्टम् आचार्यं किमहं विस्मरेयम्। सः मम हृदयस्थः जातः।
यदा मया विरामकाले गृहं गन्तव्यम् इति आपतितम् तदा तम् उपसर्प्य चरणयुगलं नमस्कृत्य प्रसादं प्रार्थितवान्। तदा सः कपाटिकातः श्रीगणेशस्य सुन्दरीं मूर्तिं मह्यं आशीर्वादैः सह दत्तवान्। आनन्देन तं प्रसादं गृहीत्वा तस्य आलिङ्गनं कृतवान्। सः माम् आपृच्छ्य गृहं प्रेषितवान्।
इदानीमपि सः विग्रहः मम प्रकोष्ठे प्रार्थनापीठे विराजते। प्रत्यहम् इमं श्रीगणेशम् अभिवन्द्य एव स्वकर्तव्यानि करोमि। यदा यदा नमस्कारं करोमि तदा तदा मम मित्रम् अध्यापकं कृतज्ञतया स्मरामि। यथा सः तथैव अहमपि भवेयं परोपकारी इति प्रार्थयामि।

‘गुरुः परमदैवतम्’ इत्यस्य प्रत्यक्षोदाहरणरूपी अस्ति भवद्गुरुः | तस्मै नमः |
LikeLiked by 1 person
‘गुरुः परमदैवतम्’ इत्यस्य प्रत्यक्षोदाहरणरूपी अस्ति भवद्गुरुः | तस्मै नमः |
LikeLiked by 1 person